Monday, November 13, 2023

Vimanarcanakalpa-vaisistyam by Sangendhi Dr S.MuthuBatter D.Litt., Associate Professor, Dept. of Sanskrit, RKMVC. Chennai-4

 

श्रीः

श्रीमद्विखनसमहागुरवे नमः

विमानार्चनाकल्पवैशिष्ट्यम्

(Sangendhi Dr.S.MuthuBatter D.Litt., Associate Professor, Dept. of Sanskrit, RKM Vivekananda college, Mylapore, Chennai-4)

          सर्वे वयं लोकक्षेमाय श्रियः पतिः श्रीमन्नारायणं मन्दिरे प्रतिष्ठाप्य समर्चयामः। श्रीवैष्णवसम्प्रदाये भक्ताः श्रीविष्णुं द्विधा पूजयन्ति। तयोः मध्ये वेदमन्त्रान् उपयुज्य सौम्यरूपेण विष्णुं अर्चयन्ति वैखानसाः इत्युच्यते। साक्षात् श्रीमन्नारायण एव जगतीतले श्रीमद्विखनसाचार्यरूपेण अवतीर्य इमं वैखानसशास्त्रक्रमं ददौ इति हेतोः शास्त्रमिदं भगवच्छास्त्रमित्युच्यते। अस्मिन् भगवच्छास्त्रे विखनसः सार्धकोटिप्रमाणग्रन्थान् निश्शेषं ज्ञातवन्तो भृगुमहर्षिः, अत्रिमहर्षिः, मरीचिमहर्षिः, कश्यपश्च श्रीमद्विखनसा प्रोक्तस्य र्चाशास्त्रस्य अतिविस्तृतत्वात् तच्छिष्याः भृग्वादयः चतुर्लक्षग्रन्थरूपेण ङ्क्षिप्य ददुः। तथापि, साम्प्रतं लोके अनेकैः उपयुज्यमानः वरीवर्ति मरीचिमहर्षि-अनुगृहीतविमानार्चनाकल्पः इति। परन्तु मरीचिकृतसंहितासु, भृगुना-कृत-अधिकारेषु, अत्रिकृत-तन्त्रेषु, कश्यपकृत-काण्डेष्वपि विमानार्चनाकल्प इति नाम उल्लेखितः। परन्तु विमानार्चनाकल्पोऽयं मरीचिकृत-आनन्दसंहितायाः अनुकृतत्वात्, बह्वीषु पाण्डुलिपिषु सुदृढं मरीचिमहर्षिणा विधत्तः इति प्रतिपादनाच्च, अयं ग्रन्थः मरीचिना अनुगृहीतः इति अङ्गीक्रियते। तथैव महर्षिमरीचिकृत-विमानार्चनाकल्पः, कश्यपकृत-ज्ञानकाण्डः इत्येतौ ग्रन्थौ अपादपदसन्तानरूपेण दरीदृश्यते। इतरे तावद्ग्रन्थाः चतुष्पदरूपेण समाद्योतन्ते।

प्रायशः भृगुमहर्षिणा त्रयोदशग्रन्थाः अधिकाररूपेण, मरीचिमहर्षिणा अष्टौ ग्रन्थाः संहितारूपेण, काश्यपमहर्षिणा त्रयो ग्रन्थाः काण्डरूपेण, अत्रिमहर्षिणा चत्वारो ग्रन्थाः तन्त्ररूपेण उपनिबद्धाः विराजन्ते। एतेषु प्रत्येकं ग्रन्थे चत्वारो भागाः बृहन्तः देदीप्यन्ते ते तु भागाः चर्या, क्रिया, योगः, ज्ञानमिति भवन्ति।

अस्मिन् विमानार्चनाकल्पे प्रथमतः प्रारभ्य चत्वारिंशत्पटलैः कर्षणादि-प्रतिष्ठान्तः क्रियाः प्रतिपादिताः ततः षड्भिः पटलैः नित्यनैमित्तिकार्चना निरूपिता ततः त्रिभिः पटलैः स्नपनक्रिया प्रतिपादिता ततः एकादशभिः पटलैः उत्सवादिकं उपनिबद्धम् ततः एकोनविंशतिभिः पटलैः प्रायश्चित्तादिकं विस्तृततया रचितम् ततः एकेन पटलेन अग्निकुण्डादि-लक्षणम्, अधिदेवताश्च उल्लिखिताः ततः चतुर्भिः पटलैः अनुष्ठानप्रकारः प्रतिपादितः। ततः अवशिष्टैः षोडशपटलैः ज्ञातृज्ञेयादितत्त्वम्, मोक्षः, तत्प्रभेदाः, तदुपायादयश्च विलिखिताः ततः एकेन पटलेन वैखानसशास्त्रेषु उक्तग्रन्थसंख्या निरूपिता अतः ग्रन्थेऽस्मिन् एकाधिकशततमैः पटलैः मरीचिमहर्षिणा विषयाः प्रोक्ताः इति दरीदृश्यन्ते। 

प्रतिपादेषु उक्तविषयाणां सङ्ग्रहः -

क्रियापादे विष्णोः मन्दिरनिर्माणार्थं भूः कथं चयनीया इति प्रारभ्य मन्दिरं निर्माय कथं सम्प्रोक्षणादिकं करणीयमित्यस्य उल्लेखो दृश्यते। श्रीवैखानसशास्त्रे भागोSम् अतिविस्तीर्णः भवति।

चर्यापादे विष्णुः कथम् अर्चनीयः, विशेषोत्सवदिनेषु उत्सवः कथं समाचरणीयः, यदि उत्सवेषु त्रुटिः अथवा दोषः वा भवति चेत्, स्य कथं प्रायश्चित्तादिक विधातव्यम् इति उल्लेखितः।

योगपादे श्रीविष्णुमूर्तौ रेचकपूरककुम्भकविधानेषु प्राणायामं वितीर्य कथं समर्चनीय इति विचारितोऽस्ति अतः अष्टाङ्गयोगक्रमः अर्चायां क्रियते इति दृश्यते।

ज्ञानपादे श्रीविष्णोः र्चा आजीवनं क्रियते इति कारणात्, तदनुग्रहेण ज्ञानसांराज्ये विष्णुलोके मोक्षः प्राप्यते इति प्रतिपादितः।   

प्रतिपादेषु प्रोक्तानां मौलिकविषयाणां सङ्ग्रहः -

क्रियापादे अनेके महर्षयः अनेकान् प्रश्नान् अनेकाः समस्याश्च पृच्छन्ति। तदनुरोधेन मरीचिमहर्षिरपि उत्तराणि वितरति। प्राचीनग्रन्थाः सर्वेऽपि प्रश्नोत्तररूपेणैव भवन्ति। तथैव अयमपि कल्पः दृश्यते। अस्मिन् ग्रन्थे एकोत्तरशतं पटलाः सन्ति। एतस्य दृढभावः यश्चेत्, सर्वाः अपि श्रुतयः भगवन्तं विष्णुमेव स्तुवन्ति। तदाराधनेनैव सर्वे उन्नतिं, मोक्षञ्च प्राप्नुवन्ति इति कथयन्ति वेदवाचः एतान् सर्वान् अर्चारूपेण क्रमेण वदति। अतः अस्य विमानार्चनाकल्प इति सयुक्तिकं नाम भवति।

तस्मात् परंब्रह्मपरञ्ज्योतिरक्षरं सर्वभूतात्मकं सर्वाधारं सनातनं परमपुरुषमर्चयेत् तत् विमानार्चनम् इति उक्तम्।

 अनेन प्रकारेण ग्रामः, नगरम्, पट्टणम्, अग्रहार इत्यादि अर्च्यन्ते तेन ूर्वोक्तानि स्थलानि सुखं भवन्ति इति कथ्यते। श्रीविमानार्चनाकल्पं कथयति यत् सुन्दरेस्य मन्दिरनिर्माणार्थं निषेकादिसंस्कारकाध्यापित - भूपरीक्षाशास्त्रविचक्षण - दयाक्लिन्नेन्द्रियाजित - निश्चचलमनोयुक्तानवरत - भगवदाराधनतत्परगृहस्थाचार्यैकाकार्चकं प्रार्थयेत् इति उक्तं भवति।

तदर्चकः शुभशकुनेन पूर्वाम् उत उत्तरां दिशं गत्वा ल्मीकमृत् सङ्ग्ह्य, अङ्कुरार्पणं विधाय, स्वस्तिशकुनसूक्तैः मन्दिरनिर्माणाय भुवं स्वीकुर्यात्। तथैव अयुक्तवृक्ष - अस्थिशकल - अधिकशिला - वल्मीक - कूप - भस्म - अङ्गार - तुष - केशयुक्त-स्थलानि विहाय, मध्येग्रामं ब्रह्मभागं चित्वा, महद्भिः प्राकारैः विष्णुमन्दिरस्य निर्माणं विदधीत। तत्र विष्णुपुरुषसत्याच्युतानिरुद्धपञ्चमूर्तिविधानेन विष्णुं प्रतिष्ठाप्यार्चयेत् इति उक्तम्।

एकग्रामानुरोधं वीथिः, वास्तुक्रमेण विष्णुसन्निधिः, बेरः, अर्चकः इत्येते भवितव्याः। श्रीविष्णु-वन्दितनगरे वासं कुर्यात्। विष्णुमन्दिरनिर्माणाय आचार्येण सह गत्वा, भुवः मानं विधाय, मन्त्रैः समर्च्य, हलेन भुवं समतलीकृत्य स्थापयेत् ततः परं तत्र षाष्टक-श्वेतसर्षप-मुद्गादि धान्यानि वापयित्वा तद्वर्धनानन्तरं तानि गोभ्यः दत्वा तत्र पूजाः विधाय आलयं कारयेत् इति सुविस्तरम् उवाच।

साम्प्रतं लघूपकरणदर्शनवत् अस्मच्छास्त्रेऽपि मरीचिः तमाल-चम्पकार्जुनपलासा- तिमधुराञ्जूर-बिल्व-शमीत्यादि वृक्षैः लघुमन्दिरं, मूलमूर्तिं, परिवारमूर्तिं विधाय पूजयेत् इति उक्तम्। इत्थं कृताः मूर्तीः किञ्चित् कालानन्तरं स्वधारूपं प्राप्य साम्प्रतमपि मदुरै, श्रीविल्लिपुत्तूरादि स्थलेष्वपि वर्णकलापयुक्ताः दृश्यन्ते। कालात्यये एतेषाम् अनवलोकनात् दारुमूर्तेः परिपालनस्यापि अशक्तत्वात् दारुमूर्तीं परिवर्त्य शिलामूर्तीं स्थापितवन्तः तत्कालीनाः। एतदनुसारम् अद्यापि पूरीक्षेत्रे द्वादशवर्षेषु एकवारं मन्दिरस्थमूर्तीः नूतनतया निर्माय पुनः प्रतिष्ठां कारयन्ति। एतन्निमित्तमेव तत्र पृथक्स्थले दारवः समारोपितः सन्ति। प्राचीनस्थलेषु दृश्यमानाः नवमूर्तयः ( विष्णु, कौतुक, पुरुष, सत्य, अच्युत, अनिरुद्ध, वराह, नारसिंह, नारायणश्चेति) षट्पञ्चमूर्तीनां प्रतिष्ठाविधिः उक्तोऽस्ति क्रमात्। बालालये विशेषोत्सवः नैव कर्तुं शक्यते। अतः तरुणालयप्रतिष्ठां विधाय उत्सवादिकं कुर्यादिति प्रतिपादयति।

 

शङ्कुस्थापनम् - दिङ्निर्णयश्च -

आलयनिर्माणात्पूर्वं तत्स्थले मध्ये तीक्ष्णदण्डमेकं सूर्योदयात्पूर्वं ततः पश्चात् तद्दारुच्छायामाश्रित्य प्रतिमासं, ततः उत्तमां पूर्वां दिशां चित्वा गर्भगृहाय भुवं खनित्वा तन्मध्ये रत्नन्यासं विधाय, तदनन्तरं शुद्धशिलाभिः आलयनिर्माणं कुर्यात्।

ततः मन्दिरप्रधानगोपुरं एक-द्वि-त्रि-चतु-पञ्च-दशपर्यन्तं तलानि, अस्य अधिष्ठानग्रीवालक्षण-शिखरलक्षण-नासिकाविधान-स्तूपीविधानादीन् युग्मायुग्मदलस्य निर्माणं कुर्यात् इति उक्तम्। ततः विमानलक्षणविधस्वरूपनिर्माणादिविषयम् अवदत्। किन्तु प्रायः त्रितलनिर्माणं सर्वेषां शुभकरम्। प्रायः येन विधानेन विमानं रच्यते, तेनैव मानेन गर्भगृ-मुखमण्डप-महामण्डप-निर्माणमपि सविस्तरम् अवदत्। तदनन्तरं मन्दिरकवाटं मन्दिरवितान-संयोजनमपि कथं कुर्यादिति अकथयत्। परं तावत् आयादिगणनविधानमपि अवदत्। तदनु सप्तप्राकार-गोपुर-शिलाशालानिर्माणविधिं विस्तरशः अप्रतिपादयत् तत्तु निर्माणं शुद्धतीर्थयुततटाकेन भवितव्यम्। पश्चात् प्रथमद्वितीयतृतीयावरण- देवतापरिवारमूर्तिमन्दिरप्रकाराः उच्यन्ते। पश्चात् लघुरूपेण एकां चतुरप्रमाणपेटिकां निर्माय तस्यां स्रुक्स्रुवम्, कमण्डलुः, श्रीवत्सम्, पूर्णकुम्भम् इत्यादि अष्टमङ्गलवस्तूनि वर्णचिह्नरूपैः सुवर्णरजतताम्रादि लोहैः कृत्वा प्रधानमूर्तिपीठाधोभागे त्रिपदपरिमितौ कर्तुम् ऊचे। एतदेव फेलास्थापनमित्युच्यते। किन्तु साम्प्रतं अनेकविधलोहपट्टयन्त्राणि स्थापयन्ति। परम् एतानि शास्त्रेषु नोक्तानि विधानानि यन्त्रस्थापनादीनि। नवरत्नस्थापनं, फेलास्थापनमेवोक्तम् इति कथनम् उल्लेखनीयम्। ततः श्रीवैखानस-सलक्षणाचार्याय भूदानं कुर्यादिति निगदितम्। ध्रुवबेराय शिलाचयनविधिः, श्रीदेवीभूदेवीपरिषद्देवताशिलाचयनविधिः, मूलबेरः ताम्रशिलादारुवस्तुविशेषेषु करणीयः इत्येते विधयः कथिताः। तत्तद्बेरपरिमितिं सङ्गणय्य पीठनिर्माणविधिं कथयामास। यदि ध्रुवबेरः शिलाविग्रहश्चेत् तत्परिमितिः कथ्यते। तथैव ध्रुवबेरः दारुविग्रहश्चेत् दारुसङ्ग्रहणविधिरपि उच्यते। यदि ध्रुवबेरः सुधारूपश्चेत् स्थानकासनशयनबेराणां परिमित्यनुसारं वेत्रदण्डाणि रज्ज्वा द्ध्वा, अष्टविधौषधिचूर्णैः समालिप्य, नदीतटाकतटमृदुमृत् सङ्गृह्य पक्वीकृत्य तदुपरि द्वित्रिवारं आलिप्य वृक्षस्निग्धमपि तदुपरि परामृश्य, तदुपरि साधुकार्पासाम्बरमपि संयोज्य, हरितपर्णैः वर्णविषयान् तदुपरि चित्रीकृत्य बेरान् कुर्यादिति प्रतिपादयति।

विष्णुमन्दिर-स्थानकासनशयनबेररूपेण योगभोगवीरासने विद्यमानविधिरूपाणि, तेषाम् आसनानि, आवरणत्रयदेवतास्वरूपनामानि, चतुर्मूर्ति-नामानि श्रीभूचतुर्नामानि, धात्रादिदेवताः, न्यक्षाः, सप्तावरणदेवतानां चतुर्नामानि, विष्वक्सेनश्रीभूतगरुडचक्रशङ्ख-ध्वजयूथाधिप - अक्षहन्तारश्च प्रोक्ताः सन्ति।

द्वितीयावरणे नवग्रहस्थापना, तृतीयावरणे गङ्गायमुनादि नदीदेवताः, दुर्गा-सरस्वती-ज्येष्ठा-राका-सिनीवाली-हविरक्षक-पुष्परक्षक-बलिरक्षक-अष्टलोकपाल-चतुर्वेद- पङ्क्तीशाः पञ्चमावरणे सप्तमातृगणजयाद्यप्सरससप्तरोहिणीगण-रुद्रादित्यगन्धर्वमुनयः, षष्ठावरणे ऋषिगणः, सप्तमावरणे ब्रह्मादि पददेवतास्वरूपाणि, चतुर्नामानि उच्यन्ते। तदनु दशावतारमूर्तिस्वरूपाणि, तेषां चतुर्नामानि, कौतुकोत्सवस्नपनबलिबेर-द्रव्याणि स्वेषाम् आयादीः पीठप्रभालक्षणानि, क्रियालोपे तत्परिहारः प्रधानदेवतास्वरूपमिति सविशदं प्रस्तूयते। ततः विष्णुमन्दिरे प्रयुज्यमानपात्र-छत्र-ध्वज-भेरीयन्त्रिकादीनां लक्षणानि कथ्यन्ते। ततः पादुकाभरणवाहनप्रतिष्ठामहासंप्रोक्षणमासनक्षत्राचार्य-ऋत्विक्-लक्षणानि अङ्कुरार्पणादि क्रियाश्च कथ्यन्ते। ततः मूर्तीनाम् अक्ष्युन्मोचनं, पञ्चगव्याधिवासः, क्षीराधिवासः, जलाधिवासश्च इति विषयाः निगद्यन्ते। अधिवासकरणेन शिलाविग्रहसूक्ष्मदोषाः ज्ञातुं शक्यन्ते। ततः यागशालानिर्माणं प्रधानवेदिनिर्माणं स्नानस्वभ्रम् अरणिस्रुक्स्रुवप्रधानपात्र-सङ्कलनादि विषयाः, पञ्चाग्निपक्षः अथवा त्रयाग्निपक्षः तद्वारा प्रतिष्ठाकरणञ्च कथ्यते अग्निमथनं तत्पश्चात् ग्रामप्रदक्षिणेन यागशालागमनं वास्तुहोमसमापनं मथिताग्निद्वारा गार्हपत्त्ये प्रथमम् अग्निप्रणयनं कृत्वा पश्चात् अन्वाहार्ये आहवनीये आवसत्ये सभ्ये पौण्डरीके गार्हपत्याग्निद्वारा अग्निप्रणयनं कुर्यात् इत्येते विषयाः निगीर्यन्ते। ततः द्वात्रिंशत्प्रस्तरपरिमिति-सुवर्णरजतताम्रजलकुम्भपात्रेण प्रधानकुम्भं निर्माय तस्मिन् नवरत्नानि, अष्टमङ्गलपञ्चायुधानि, वर्णचिह्नानि, विष्णुगायत्र्या समर्प्य रेचकपूरककुम्भक-प्राणायामान् विधाय विष्णुम् आवाहयेत् इति उच्यते। प्रतिसरबन्धं (रक्षाबन्धनं) विधाय पञ्चशयनास्तरणे आवाह्य, अभ्यर्च्य, हौत्रप्रशंसनस्य विधानं, सभ्याग्नौ आवाहनम्, जुष्टाकारं स्वाहाकारं वैष्णवं विष्णुसूक्तं पञ्चवारुणं मूलहोमं कूष्माण्डहोमं सकृत् हुत्वा, सहस्राहुतिहोमं विधाय, सर्वदैवत्यहोमं कुर्यादिति उच्यते।

आहवनीयहोमे पुरुषसूक्तभृगुमार्कण्डेयेन्द्राग्निमन्त्रान्, अन्वाहार्ये विष्णुसूक्तं ब्रह्मं याम्यं नैर्ऋति-मन्त्रम्, गार्हपत्त्ये वैष्णवं श्रीभूमिदैवत्यं, वरुणवायुदेवतामन्त्रान्, आवसत्ये एकाक्षरसूक्तं रौद्रं, कौबेरम् ईशानं इत्यादि देवतामन्त्रान् प्रत्येककालं द्वादशाष्ट अथवा तुर्वारं होमं जुहुयात् इति। पौण्डरीकाग्नौ श्वेतपद्मं पद्मं वा सङ्गृह्य बिल्वपत्रेण अष्टोत्तरशतं विष्णुगायत्र्या होमं विष्णुसूक्तं ब्राह्मं पारमात्मिकं होमं कुर्यादिति वदति।

शुभमुहूर्ते दिने रत्नन्यासं विधाय भगवन्तम् आवाह्य महाहविर्निवेदनं विधाय अर्चयेदिति वदति। ततः परिवारदेवता-प्रतिष्ठा सहस्राधिकब्राह्मणजनवासस्थले नव-षट्-पञ्च-बेरनिर्माणविधिः, विमानप्रतिष्ठाविधिः, प्राकारकुड्यमूलकोणे सिंहगरुडप्रतिष्ठाविधिः श्रीभूमिदेवी-पृथक्प्रतिष्ठा, तस्यां वैवाहिकोत्सव इत्यादि विषयाः प्रोच्यन्ते।

तदनन्तरम् अस्य यज्ञस्य कार्यक्रमान् एवं निर्दिशति।

अस्य यज्ञस्य प्रथममङ्कुरार्पणं, द्वितीयं सम्भाराहरणं, तृतीयमक्ष्युन्मोचनं, चतुर्थं बिम्बशुद्धिः, पञ्चममग्निमथनं, षष्ठं वास्तुशुद्धिः, सप्तममग्निप्रणयनम्, ष्टमं कुम्भपूजा, नवमं ध्यानम्, दशमं कलशस्थापनं, प्रतिसरं, शयनास्तरणं ,  एकादशं शयनाधिवासं, द्वादशं वेदाध्ययनं सर्वदेवार्चनं, त्रयोदशं हौत्रप्रशंसनादि, चतुर्दशं प्रधानहोमं, पञ्चदशं देवस्योत्थापनं स्नानं, षोडशं रत्नन्यासं, सप्तदशं दक्षिणादानमग्निसंग्रहणं, ष्टादशं सद्मप्रदक्षिणम्, एकोनविंशतिकं चलाचलस्थापनं तयोरावाहनञ्च, विंशतिकं अन्यदेवानामावाहनं, एकविंशतिकं पुण्याहवाचनं, द्वाविंशतिकं देवार्चनं, त्रयोविंशं ब्राह्मणभोजनं वैष्णवपूजनं, चतुर्विंशतिकम् उत्सवं, पञ्चविंशं स्नपनं महाहविर्निवेदनम् इति क्रमेण एतेषां विपर्यासं नैव कारयेत्।।

फलश्रुतिरपि प्रोक्ता अस्ति एवं यः कुरुते भक्त्या विष्णोस्थापनं ब्राह्मणः श्रद्धधानः तस्य मनोवाक्कायकृतं पापं क्षिप्रं नश्यति। सर्वयज्ञफलं लब्ध्वा सर्वान् कामानवाप्य दशपूर्वान् दशापरान् आत्मानं चैकविंशतिकं विष्णोर्लोकं गमयित्वा तद्विष्णोः परमं सायुज्यपदं प्राप्नोति इति उक्तम्।

क्षत्रियो विजयां श्रियं कीर्तिं लब्ध्वा अन्यूनानेककोशाक्षयबलः सर्वक्षत्रियाभिवन्द्यः सागरान्तां महीं प्राप्य चक्रवर्ती भूत्वा विष्णोस्सारूप्यपदं प्राप्नोति।

वैश्यो धनधान्यसम्पूर्णः तेजस्वी यशस्वी पुत्रवान् पशुमान् पुण्यमनोरथपूरस्य विष्णोस्सामीप्यपदं प्राप्नोति।

शूद्रः स्वकुलकेतुः प्रजावान् तेजस्वी यशस्वी शुमान् ऐहिकान् भोगानवाप्य विष्णोः सालोक्यपदं प्राप्नोति।

ग्रामस्य राष्ट्रस्य राज्ञश्च शान्तिमारोग्यधनधान्यायुर्विवृद्धिं कुर्यात्। तस्मात् देवयजनं यष्टव्यमिति विज्ञायते इत्युक्तम्।

अस्मिन् क्रियापादे इत्येतान् विषयान् उक्त्वा चर्यापादविषयान् प्रस्तौमि

चर्यापादे -   

मन्दिरे देवं प्रतिष्ठाप्य प्रतिदिनं भगवच्छास्त्रोक्तरीत्या नित्यार्चनविधिः, उषः-कालसुप्रभातसेवामरभ्य षट्कालाराधने उपचाराविषयाः उच्यन्ते। प्रत्येकस्मिन् आसने हवः विधयः उपचाराश्च प्रतिपादिताः

विमानार्चनाकल्पोक्तरीत्या अर्चनानवनीतेऽपि उक्ताः विषयाः -

प्रातःकालार्चनञ्चैव जपहोमादिवृद्धये।

मध्याह्ने चार्चनं चैव राजराष्ट्राभिवृद्धये

सायङ्कालार्चनं नैव सर्वसस्याभिवृद्धये।

उषःकालार्चनं चैव नरस्त्री शिशुवृद्धये

अपराह्नार्चनञ्चैव असुराणां नाशहेतवे।

अर्धरात्रार्चनञ्चैव चतुष्पादभिवृद्धये।

एवं षट्कालपूजायामैहिकामुष्मिकं फलम् इति।

उदाहरणतया पूजायां यात्रासने बलिबेरं प्रतिष्ठाप्य बलिं कुत्र दीयात् इति क्ति ततः षोडशोपचारान् हविर्निवेदनं, पूजोपयोज्यवर्ज्यपुष्पाणि अधिकृत्य कथयति। ततः नवषट्पञ्चमूर्तीनां नित्यार्चनम्, एकबेरार्चनम्, द्वादशमासार्चनं, स्नपनशुद्धस्नपनादि विधयः, ब्रह्मोत्सवे चक्रप्रतिष्ठा इत्यादीन् उपदिशति। इयं प्रतिष्ठा संप्रोक्षणकालेपि कार्या।

तदनु ध्वजारोहणब्रह्मोत्सवादीन् कथयति। सम्प्रोक्षणान्ते उत्सवान्ते ग्रहणकालान्ते युगान्ते अयनान्ते राजयजमानजन्मनक्षत्रे दशकष्टापत्तौ दोषशान्तये प्रयश्चित्तादीन् कुर्यादिति तत्क्रमान् वर्णयति।

          नवदिनब्रह्मोत्सवात्यये सति एकदिनब्रह्मोत्सवविधिं वर्णयति। दशावतारमूर्तिविषयान्, दशावतारान्तरभेदान् विवेचयति। मानुषवासुदेवप्रतिष्ठास्थापनं तदर्चनं (तिरुवल्लिक्केणि), दैविकवासुदेवार्चनं तत्स्थापनं विवेचयति। अस्य मतं वर्तते यत् वैखानसेनेदम् उक्तम् इति। तथापि चैतत् श्रीवैखानसभगवच्छास्त्रे मानुषवासुदेवप्रतिष्ठायां प्रकारो क्तोऽस्ति। तदनु अनेकविधप्रायश्चित्तानि पूज्यबेरेषु भिन्नेषु थं तेषां त्यागः इति अवोचत्। आलये निर्माणसमये तदाचार्ये दिवङ्गते, तत्पुत्रपौत्रादिकैः त्यक्तपूजाविधानानि अवलोकनीयानीति उक्तमास्ते। यदि तद्वंशीयाः सज्जाश्चेत् तेषामनुमतिं प्राप्य तच्छिष्य-प्रशिष्य-वैखानसाचार्येण सर्वमपि कर्तव्यमिति प्रोक्तम्। अद्भुतदर्शने शान्तिभेदान्, तेषां प्रयोगान्, तथा अतिवृष्टि-अनावृष्टौ प्रायश्चित्तानि पवित्रोत्सवांश्च विवृणोति। तदनु नित्यकर्मानुष्ठानानि ऋषिच्छन्दांसि प्रणवस्वरूपञ्च उपनिपद्धानि सन्ति।

योगपादे -

          प्रतिदिनं नित्यार्चनविशेषार्चनायां प्रतिष्ठायाञ्च गुरुमुखेन रेचकपूरककुम्भकादि प्राणायामाभ्यासेन वैखानसानां कृते अष्टाङ्गयोगः सिद्धः इति उक्तम्। यतः भूतशुद्धिः रेचकादि प्राणायामकरणे मन्त्रन्यासेन स्वदेहपापपुरुषहतिः, शोषणदाहनप्लावनादिभिः मन्त्रैश्च पुण्यपुरुषम् उज्जीव्य, तस्मिन्नपि ञ्चभूतन्यासेन सृष्टिं क्रमीकृत्य प्राणप्रतिष्ठां कृत्वा षोडशकलां प्रतिष्ठाप्य, तत्पश्चात् जीवः प्रतिष्ठाप्यते। इतः परमेव परमात्मप्रतिष्ठां, अचोन्तन्यासं, अन्तर्मातृकान्यासं, बहिर्मातृकान्यासान् विधाय, एकाक्षरन्यासमपि विधाय भगवन्तं नारायणं ध्यात्वा आवाहयति। एतान् वैखानसार्चकाः यम-नियमासनप्रत्याहारधारणध्यानसमाधिभिः कुर्वन्ति। तस्मात् एतेषाम् अष्टाङ्गयोगोऽपि सिद्ध एव भवति

ज्ञानपादे

          एकेन चर्याक्रियायोगेषु कृतेष्वपि ज्ञानम् अनितरसाधारणम् आस्ते। सर्वैः ज्ञानपादः ज्ञातव्यः। श्रीवैखानसभगवच्छास्त्रे विमानार्चनेन ज्ञानपादः सिद्धो भवति। इमं ज्ञानपादसिद्धविषयं मरीचिमहर्षिः तत्त्वज्ञानोपदेशविधिरिति पृथगुपदिशति। तत्त्वं नारायणः परः इति श्रुतिभिः उद्घोषितत्वात् श्रीमन्नारायण एव ब्रह्म, एव सकलनिष्कलरूपेण सन्, सर्वाणि करोति इति उच्यते। श्रीमन्नारायण एव इदं जगत् सृष्ट्वा, नारायणः श्रीश्च भोक्तृ-भोक्तृ-चेतनाचेतनरूपेण प्रकृतौ मिश्रीभूय स्वरूपज्ञात्मनां कृते शुभाशुभकर्माणि वितरन्तौ स्तः। प्रतिदिनं श्रीमन्नारायणं अर्चिरादिमार्गेण आराधयन्ति चेत्, तेषां श्रीवैकुण्ठे नित्यवासः अनुगृह्यते, नारायणेनेति श्रीवैखानसानां दृढतरसिद्धान्तः भवति। तदनु वैकुण्ठवर्णना सविस्तरं क्रियते। यथा वैकुण्ठं चतुर्धा भवति तत्तु क्रमेण आमोदवैकुण्ठे विष्णुरूपेण, प्रमोदवैकुण्ठे महाविष्णुरूपेण, सम्मोदवैकुण्ठे सदाविष्णुरूपेण, श्रीवैकुण्ठे सर्वव्यापिनारायणरूपेण वर्तमानलोकान् रक्षति इति उच्यते।

          एतादृशं श्लाघपूर्वकं भगवदर्चाशास्त्रं यत्किञ्चित् यथामति कांश्चन मुख्यविषयान् अहं तत्रभवतां श्रोतॄणां सन्निधौ समर्पयामि अत्र अनुक्तविषयाः अमुख्या इति न। कालावकाश मनसि निधाय केचनांशाः मया स्वीकृताः यदि अत्र दोषास्स्युः क्षाम्यन्त्विति प्रार्थये

मङ्गलानि भवन्तु

Note - This article presented (3-11-2023) at two day National workshop on Vimarcanakalpa conducted by Dept. of Agama in National Sanskrit University, Tirupati and it is well organized by Professor V.S.VishnuBhattacharyulu, HOD of Vaikhanasa Agama, NSU, Tirupati

For further details, contact- Dr.S.MuthuBatter D.Litt., Associate Professor, Dept. of Sanskrit, RKM Vivekananda College, Mylapore, Chennai-4, Cell-8925295380